Tuesday, 9 December 2014

आधुनिकवैद्युतशोधोपकरणानि…


नवम्बर 24, 2014 balramshukla द्वारा
        आधुनिकवैद्युतशोधोपकरणानि                                                                                                                             
–––बलरामशुक्लः (अध्यापकः संस्कृतविभागे)
अन्तर्जालसहकृतं संगणकम् आधुनिकयुगे विकासस्य प्रतिभूतिरस्ति। एकेन केनचित् कृतस्य श्रमस्य लाभः भूयोभ्य आपादनमन्तर्जालस्य प्रमुखं वैशिष्ट्यम्। अन्तर्जालं न केवलमाधुनिकशोधानामाधारभूमिरस्ति अपितु पारम्परिकशास्त्राणां सर्वविधसंरक्षाणायापि एतज्जीवातुभूतम् सिध्यति विशिष्य अस्मिन् वैश्वीकरणस्य युगे यत्र विश्वमपि विश्वं लघुविपणिरूपेण परिणतम्। सामान्यतः संख्याशक्तिमन्तः धनवन्तः क्रियाकौशलवन्तश्च सर्वत्र जयन्ति लघुकांश्च स्वपादतले चूर्णयित्वा अग्रे गच्छन्ति। अन्तर्जालस्य सर्वसौलभ्यमेतम् अन्यायं निरुणद्धि। अनेन त अपि विषया आत्मानं रक्षितुं शक्नुवन्ति ये प्रत्यक्षतः विपणिजगता व्यवसायेन अर्थकरतया सम्बद्धा न सन्ति। अन्तर्जालेन विप्रकृष्टाः सन्निकृष्टाः कृताः, विलम्बिताश्च द्रुतीकृताः अर्थव्ययश्च अत्यन्तं लघूकृतः। अनेन अल्पसाधनवन्तोऽपि जनाः तमेव लाभं ग्रहीतुमर्हा यमन्ये तदितराः। संस्कृतस्य कृते तु अन्तर्जालं प्राणाधायकमेव। न केवलं देशस्य अपितु समस्तस्यापि जगतः संस्कृतसम्बद्धाः सूचनाः एकीकृत्य अन्तर्जालेन संस्कृतस्य महती शक्तिः पुनः सन्धुक्षिता। तत्र विशिष्टकार्याणि वैदेशिकैः विदेशस्थैः भारतीयविद्वद्भिः च कृतः। प्राचि काले प्रकाशमायाताः दुर्लभसंस्कृतग्रन्था येषां पुनःप्रकाशनाय ग्राहकाभावात् प्रकाशकैः नोपक्रम्यते ते छायाप्रति(स्कैन्)रूपेण अन्तर्जाले निधापिताः। ते च निःशुल्कतया तत्तत्स्थानेभ्यः ग्रहीतुं शक्याः। एतेन श्रमस्य धनस्य च महद् रक्षणं सम्भवति। एतर्हि विद्यादुर्भिक्षदुष्काले शोधार्थिनः स्वीयप्रश्नानामुत्तराणि गृहीतुमतितरां दुःख्यन्ते। तत्रापि संस्कृतविद्वत्समूहादयः समूहवैद्युतसन्देशाः (Group e-mails) तान् श्रममन्तरेण एव यथामति सहकर्तुं क्षमाः। अधुनावधि सम्पादितानां संस्कृतस्य विविधभाषाभूषिताः कोशाः अपि अत्र विद्यन्ते। येन एकस्य कस्यचित् जिज्ञासितस्य शब्दस्य युगपत् तत्तत्कोशेषु दर्शनं सुकरम्। विश्वस्य अज्ञातेऽपि कस्मिंश्चित् कोणे स्थिताः विविधविद्वांस एतर्हि संस्कृतक्षेत्रे किं किं नवीनं कुर्वते एतद् अनायासं ज्ञातुमर्हन्ति शोधार्थिनः तैः सम्पर्कमपि विधातुं प्रभवन्ति। साम्प्रतं संस्कृतोट्टङ्कणादेः कृते भूयसां प्रविधीनामुपलब्ध्या एतत् कार्यं शिक्षितुं महतः कस्यचन कष्टपूर्णश्रमस्यापि आवश्यकता न विद्यते। परमावश्यकमस्ति युगधर्ममिवैतत् यत् संस्कृतजनाः सामान्येन संस्कृतशोधार्थिनश्च विशिष्य संगणकप्रयोगे श्रद्धावन्तो भूत्वा दत्तावधाना भवेयुः येन ते  एतस्मात् यथोपलब्धसम्भारात् कणेहत्य लाभं लब्ध्वा, एतस्मिन् महति भाण्डारे स्वकीयं योगम् अपि दातुमर्हन्तु।
प्रकृतः प्रयत्नः उपर्युक्त एव विषये संस्कृतजनानां विशिष्य अनुसन्धित्सूनां रुचिसंवर्धनायास्ति। महतः अन्तर्जालजगतः प्रकृष्टोपयोगिनां संकेतानां परिचयपुरस्सरमत्र संग्रहो विहितः अतः दिङ्मात्रतता एवास्या प्रस्तुतेः ज्ञातव्या। विश्वास्यते यदेतद् संगृह्य अनुसन्धित्सवः अन्येषु अन्तर्जालस्थानेषु अत्रानुक्तेषु प्रवर्तिष्यन्त इति।
१–संसाधनानि–
sanskritdocuments.org
अन्तर्जाले संस्कृतसम्बद्धसूचनानां महत्तमः संग्रहः। अत्र संस्कृतशिक्षणस्य शोधस्य चोपयोगीनि भूयांसि उपकरणानि तेषां संकेताश्च विद्यन्ते, यथा– संस्कृतकोशाः, ग्रन्थाः, वैयक्तिककक्षाः इत्यादयः। अत्र धृतानि वस्तूनि देवनागर्याम् अथ च रोमन–लिप्याम् अपि वर्तन्ते। संस्कृतशिक्षणाय विभिन्न यन्त्राणि (Software) तन्त्रज्ञैर्विकासितानि अत्र सङ्केतितानि।
http//:sanskrit.jnu.ac.in 
जवाहरलालनेहरूविश्वविद्यालयस्य संस्कृतप्रगताध्ययनकेन्द्रगतैश्छात्रैरध्यापकैश्च सहभूय निर्मितमिदं जालस्थानमनेकानि शोधोपकरणानि दधाति। अमरकोश–वाक्यपदीयादिग्रन्था अत्र यूनिकोड–मध्ये सज्जीकृत्य स्थापिताः। सुप्तिङन्तादिविश्लेषकानां यन्त्राणां विकासः अस्य वैशिष्ट्येषु अन्यतमः।
http://sanskritdocuments.org/learning_tools/sarvanisutrani/allsutrani.htm
अत्र सर्वेषामेव पाणिनिसूत्राणां काशिकान्यासपदमञ्जरीकौमुद्यादिसहकृतानामेकत्र अजितकृष्णेन तत्तत् स्थानेभ्यः आहृत्य आहृत्य संग्रहः कृतः। व्याकरणाध्ययने धृतोत्साहानां शोधार्थिनां कृते समस्तस्यापि सव्याख्यस्य शास्त्रस्य आहृत्य प्रकाशनेन महदुपयोगि स्थानमेतत्।
http://www.taralabalu.org/panini/greetings.htm
शिवमूर्तिस्वामिना सिरिगेरेमठ (कर्नाटक–) स्थेन विकासिता गणकाष्टाध्यायी अष्टाध्याय्याः व्याख्यायामुपयोगि। एतद्देवनागरी–रोमन्–लिप्योः द्रष्टुं शक्यते। अत्र सूत्राणां पदपाठ–वृत्ति–व्याख्याश्च नियोजिताः वर्तन्ते। कौमुदीवृत्तिरपि अत्र दत्तास्ति।
http://sanskrit.sai.uni-heidelberg.de/Chanda/
छन्दांसि परिचेतुम् प्रवर्तितमिदं जालस्थानम्। एतत् छन्दांसि प्रत्यभिज्ञातुम् अपि अर्हति। पाणिनीयव्याकरणविषया अपि अत्र सन्निवेशिताः।
      https://sites.google.com/site/samskritavyakaranam/
आधुनिकजगति पाणिनीयव्याकरणस्य वैज्ञानिकव्याख्यात्र्याः पुष्पादीक्षितमहाभागायाः केनचिद् अमेरिकीयशिष्येण तदीयपद्धतिं ज्ञापयितुं सामग्री अत्र समग्रीकृता।
          २–ग्रन्थाः
Archives.org
अत्र नैकैः अटलाण्टादिवैदेशिकविश्वविद्यालयैः संस्थाभिश्च छायाप्रतिरूपेण उपायनीकृतानि भूयांसि विविधभाषापुस्तकानि अत्र प्रचुरतया पी डी एफ़ रूपेण विराजन्ते निश्शुल्कं च गृहीतुं शक्यानि। तत्र संस्कृतस्य न केवलं ग्रन्था अपितु अन्यानि अपि दृश्यश्रव्योपकरणानि विद्यन्ते। संस्कृत–पी॰ डी॰ एफ़॰ग्रन्थानां महत्तमः संग्रह एषः कथयितुं शक्यम्।
 http://www.sanskritworld.in
अत्र संस्कृतग्रन्थाः यूनिकोड–मध्ये टङ्कयित्वा निधापितानि येन तेषाम् अन्यत्र अन्यथा चोपयोगोऽपि भवितुं शक्नोति। वस्तुतः वैदेशिकैः संस्कृतग्रन्थाः भूरिशः उट्टङ्क्य अन्तर्जाले निधापिताः परन्तु तत्र नः कृते समस्यास्ति यत् तेषां लिपिः रोमन् अस्ति। कैश्चनाध्यवसायिभिः तद्विद्भिः त एव ग्रन्था नागरीलिप्यां परिणमय्य प्रस्तूयन्ते येन संस्कृतविद्भ्यः तेषां महत्त्वम् अनेकगुणितं जायते । एतादृशानि एव कार्याणि अत्र धृतानि सन्ति। डा॰ धवलपटेलेन सम्पादितं कार्यमिदम् । अत्र वैदिकसाहित्यवर्गे ४६, महाकाव्यवर्गे १०, पुराणवर्गे २१, धार्मिकसाहित्यवर्गे २२९, काव्यवर्गे ८२, अलङ्कारवर्गे २९ अपरे च अनेके ग्रन्थाः एकत्रीकृताः।
http://www.dli.ernet.in
डिजिटल लाइब्रेरी आफ़ इण्डिया कार्यमेतत् विविधभारतीयप्रौद्योगिकसंस्थानैः उपक्रान्तम्॥ अत्र भूयांसः शोधोपयोगिग्रन्थाः आनीय छायप्रतिरूपेण स्थापिताः। एतत् सर्वं डाउन्लोड् कर्तुं पूर्वं साफ़्टवेयर–विशेषस्य साहाय्यं ग्राह्यं भवति।
http://www.muktabodha.org
कार्यमेतत् अनेकसंस्थाभिः सम्भूय क्रियते। अत्र धार्मिकदार्शनिकग्रन्थाः यथा काश्मीरशैव–तन्त्रग्रन्थाः–वैदिकग्रन्था प्रामुख्येन स्थितिमन्तः।
 The GRETIL e-library
भारतविद्यासम्बन्धी पुस्तकालय एषः वैदेशिकसंस्थया कयाचन संगृहीता। अत्र मुख्यतः प्राचीनग्रन्थाः साहित्येतिहाससहकृता विद्यन्ते।
http://sarit.indology.info
ग्रन्थानामुपलब्धयेऽत्र महत्त्वाधायि–अन्वेषण–सङ्केतानां संग्रहो विहितोऽस्ति।
http://sanskritlibrary.org/
अत्र भूयसां संगणकीकृतानां संस्कृतग्नन्थानां  संग्रहः वरिवर्ति ।
 Sanskritbooks.org
केरलनिवासिनः शङ्कराख्यस्य संस्कृतप्रेमिण इदं जालस्थानम्। अत्र बहुभ्यः स्रोतोभ्य उपयोगिपुस्तकानां संकेतान् आदाय एकत्र अध्यवसायिनानेन  प्रदत्तमस्ति। एतस्य अन्यद् अन्तर्जालस्थानमस्ति -hindubooks.org.
http://books.google.com
गूगलसमूहेन भूयांसि पुस्तकानि संगणकीकृतानि तेषु संस्कृतस्यापि बहवः सन्ति। सामान्यतया एतेषा संग्रहणं निश्शुल्कं न विद्यते।
ignca.nic.in/asp/searchResults.asp?page=2&searchOption=sc&searchTerm=sanskrit
सर्वकारीय एष प्रयासः । परश्शताः ग्रन्थाः पी डी एफ़ रूपेण समाकलिता अत्र निश्शुकं ग्रहीतुं शक्याः। एतद्गतानि नैकानि पुस्तकानि अन्यत्रापि समुपलभ्यन्ते। राष्ट्रियअभिलेखागारगतानि पुस्तकानि अत्र छायारूपेण संस्थितानि।
ignca.nic.in
गौडीयग्रन्थमन्दिरस्य सहकारेण गौडीयाः इतरे च असाम्प्रदायिका अपि ग्रन्था अत्र निधापिता वर्तन्ते।
sanskrit.nic.in
राष्ट्रियसंस्कृतसंस्थानेनापि प्राचामर्वाचां संस्कृतग्रन्थानां भाण्डारः सम्पादितः। आधुनिकसंस्कृतसाहित्यपुस्तकालयस्य निर्माणप्रयासः विगतवर्षेषु संस्थानेन कृतः सोऽत्यन्तमभिनन्दनीयः। अत्र प्रमुखानाम् राजेन्द्रमिश्रराधावल्लभत्रिपाठिप्रभृतीनाम् आधुनिकसंस्कृतकवीनां गद्यपद्यसंदृब्धाः ग्रन्थाः विभिन्नपरिसराणां सहकारेण संगणकीकृत्य संरक्षिताः। एष प्रयासः अद्वितीय इवास्ति अस्मिन् क्षेत्रे।
http://www.jainelibrary.org
दर्शने विशिष्य जैनदर्शने सन्धानोत्सुकानामुपयोगि स्थानम् । एतस्य सन्देशतन्त्रम् (group e-mail) विद्यते येन नवीनतया स्थाप्यमानानां पुस्तकानां सूचना प्राप्यते।
http://www.uwest.edu/sanskritcanon  
                                     http://www.dsbcproject.org
अत्र बौद्धदर्शनविषयाः प्रायशः ६८० सूत्र–शास्त्र–स्तोत्रग्रन्थाः समुपलम्भिताः सन्ति। अत्र कार्ये बहवः बौद्धसंस्थाः सहकर्तुं बद्धपरिकराः सन्ति।
dvaita.net
अत्र द्वैतवेदान्तसम्बन्धिनः दार्शनिकग्रन्थाः विद्यन्ते।
http://www.sankara.iitk.ac.in/,http://www.gitasupersite.iitk.ac.in/ http://www.brahmasutra.iitk.ac.in/
कानपुरस्य भारतीयप्रौद्योगिकसंस्थानेन एतानि जालस्थानानि विहितानि। अत्र प्रथमे शङ्कराचार्यस्य सर्वेऽपि ग्रन्थाः, द्वितीये भगवद्गीतायाः सर्वा अपि प्रमुखव्याख्याः, ब्रह्मसूत्रस्यापि सर्वाः साम्प्रदायिक्यो व्याख्या महता प्रयत्नेन एकीकृताः सन्ति। अनेकेषाम् एषां पुस्तकानां युगपदुद्घाटनेन पारस्परिकी व्याख्यापि शक्या। भारतस्य सर्वास्वपि लिपिषु सर्वापि अत्रत्या अविकला सामग्री द्रष्टुं शक्यते इति तु महान् विशेषः।
http://homepage.mac.com/somadevah/Etexts.html
सोमदेवेन विदुषा सम्पादितमेतद् स्थानम् अनेकग्रन्थानां यूनिकोड्–मध्ये स्थापनपुरस्सरम्॥
          http://www.yogaclassics.org/
न्यूयार्क–हाँगकाँगस्थेन केनचित् समूहेन योगसम्बन्धीनि पुस्तकानि संरक्षितुं एषः महान् प्रकल्प उपक्रम्यते। अत्र श्रीमद्भागवतादिग्रन्था अपि योगस्य गौणग्रन्था अपि दृश्यन्ते।
http://www.valmikiramayan.net
अत्र जालस्थाने रामायणं अनुवादसहकृतं प्रस्तूयते। अत्र विभिन्नपाठभेदा अपि चर्चिताः। श्रीदेसिराजहनुमन्तराव–के॰एम॰के॰राव् एताभ्यां विद्वद्भ्यामयम् अनुवादकार्यं सम्पाद्यते। सम्पूर्णस्यापि श्रीरामायणस्य ध्वनिमुद्रणमपि एनेन आरब्धम् इति प्रमोदास्पदम्।
https://sa.wikibooks.org/wiki
संस्कृतमाध्यमेनापि विकीबुक्स इति प्रसिद्धजालस्थानके पुस्तकानि यूनिकोड–मध्ये स्थापितानि तत्र यथोपयोगं ग्रहीतुं शक्यानि।
http://indology.info/etexts/
अन्येषां आङ्ग्ललिपौ लिखितानां पुस्तकानां सूची अतः स्थानाल्लब्धुं प्रभूयते।
२–समूह–ई–मेल
संस्कृतविद्वद्भिः सह प्रत्यक्षतः सम्पर्कं विधातुम् अथ च तान् प्रश्नान् प्रष्टुम् एतेऽवकाशाः कल्पिताः।
 भारतीयविद्वत्परिषद्, bvp
   https://groups.google.com/group/bvparishat/subscribe

संस्कृतेऽनुसन्धित्सूनां भारतीयानां कृते निर्मितमेतत् जालस्थानं संकरतपरम्पराम् अवगन्तुं, रक्षितुं समर्धयितुं च कृतसंकल्पम्। अत्र स्वीयप्रश्नान् अधिकृत्य जिज्ञासवः अनुयुञ्जन्ति तद्विद्वांसश्च उत्तरयन्ति। अत्यन्तं प्रचलितमेतद्समूह–ई–मेल–सङ्केतः। वीरनारायणपाण्डुरङ्गि–अजितगर्गेश्वरी श्रीनिवासवरखेडि–उदयनहेगे–हरिनारायणभट्टादयः विद्वांसः अत्यन्तं समयोपयोगपुरस्सरमेतच्चालयन्ति। अत्र नवीनसदस्याः प्रक्रान्तानां प्राचां संवादानामुपलब्धिमपि कर्तुमर्हन्ति। (Archived messages) अन्ये–
http://groups.google.com/group/samskrita
http://mailman.cs.utah.edu/listinfo/sanskrit
http://mailman.cs.utah.edu/listinfo/sanskrit
indology@list.indology.info
३–शोधपत्रिकाः
अत्र शोधार्थिनः नवीनशोधप्रवृत्तीः द्रष्टुमर्हाः स्वकीयशोधलेखान् प्रकाशयितुं च।
ejvs.laurasianaacademy.com
(Electronic journal of Vedic Studies. Published by the American Theological Library  Association.)
CIF-chinfo.org
चिन्मयफ़ाउण्डेशन्–तः निःसरन्ती एषा पत्रिकाऽस्ति धीमहिनामधेया
http://sarasvatniketanam.org/JSEJ  
जाह्नवी ई–शोधपत्रिका विपिनझा–वर्येण सञ्चाल्यते।
https://sites.google.com/site/praachiprajnaa/    
प्राचीप्रज्ञायाः सम्पादकः सुज्ञानकुमारमाहान्तिः। पत्रिकैषा न तु शोधपत्रम् ॥
sanskritejournaldu@gmail.com
(A journal of Sanskrit Department, University of Delhi)
प्राक्काले प्रकाशितचरी शोधपत्रिकैषा पुनः दिल्लीविश्वविद्यालयसंस्कृतविभागे ई–शोधपत्रिकारूपेण सद्यः प्रारभ्यमाणास्ति।
४–कोशाः
http://www.sanskrit-lexicon.uni-koeln.de/scans/SKDScan
http://www.sanskrit-lexicon.uni-koeln.de/monier/
http://www.sanskrit-lexicon.uni-koeln.de/scans/VCPScan
http://www.sanskrit-lexicon.uni-koeln.de/scans/ACCScan/
एते अन्तर्जालीयकोशाः शब्दकल्पद्रुम–वाचस्पत्य–आप्टे–मोनियर्–आदयः जर्मनीदेशस्य कोलोनविश्वविद्यास्थैः विद्वद्भिस्तन्त्रज्ञैर्विकासिताः।
http://www.aupasana.com/stardict
अजितकृष्णेन अनेकेषाम् आङ्ग्लकोशानामेकत्र संग्रहः कृतः। अत्र च सकृन्नोदनेन तत्तत्कोशकाराणां मतानि युगपत्प्रादुर्भवन्ति। रोचकम् उपयोगि चेदं कार्यम्।
etymonline.com
संस्कृतशब्दानां व्युत्पत्तिपरकान्वेषणार्थमेतत् स्थानं नितरामुपयोगि।
५–विकीपीडिया
http://sa.wikipedia.org/wiki
२००३ तमवर्षस्य दिसम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,१९८ लेखाः सन्ति । संस्कृतभारतीजनैरन्यैश्च विद्वद्भिः कार्येऽस्मिन् महान् सहकारः कृतः।।
६–ब्ला̆ग
आत्मनीनं यत्किञ्चित् हार्दं भवतु सर्वमपि तन्निवेदयितुं प्रकाशयितुं शिक्षयितुं  च अत्यन्तमुपयोगी विकल्पोऽधुना अन्तर्जालजगति गतिमान् दृश्यते–ब्लाग इति। संस्कृतज्ञा अपि एतस्य भूयसा उपयोगं विदधति। अतितरां गभीरा विषयाश्चानेन माध्यमेन चर्च्यन्ते। कतिचित् प्रमुख–ब्लाग्–सङ्केता अत्र प्रदीयन्तेऽवलोकनाय–
Sanskritlinks.blogspot.com
Samskritam.wordpress.com
Learnsanskritam.wordpress.com
Sanskritbooks.wordpress.com
अन्ये–
७–शोधप्रबन्धाः
शोधात् पूर्वं करिष्यमाणविषयमधिकृत्य सर्वेक्षणम् अनिवार्यं भवति तदर्थम् एतानि जालस्थानानि प्रभवन्ति।
  http://www.mgutheses.in
महात्मागान्धिविश्वविद्यालयेनोपक्रान्त एष सहस्राधिकभारतीयशोधप्रबन्धानां संग्रहः। संस्कृतस्यापि शोधा अत्र धृताः सन्ति।
sanskritworld.in,http://shodhganga.inflibnet.ac.in/
एत अप्युपयोगिनी स्थाने।
८–एग्रेगेटर (एकीकारकः)
http://sanskritcentral.com/
एतत् पृष्ठं संस्कृतसम्बन्धिजालस्थानानाम् एकीकरणपुरस्सरं तेषु तेषु स्थानेषु प्रवर्तमाननवीनसूचनानाम् प्रदानम् अपि कुरुते। कश्चिद् अन्योऽपि स्वीयं संकेतं sanskrit@cheerful.com  अत्र संप्रेष्य योजयितुं शक्नोति।
९– संस्कृत ई–पाठशाला
http://ggss-lessons.org
बङ्गलूरुस्था श्रीमतीसौम्या कृष्णपुर् सिद्धान्तकौमुदीं पाठयति। एषा प्रख्यातवैयाकरणानां महाबलेश्वरभट्टानां शिष्या। कक्षानां सूचना अस्मिन् सङ्केते प्राप्तुं शक्यते। व्यतीतपाठानाम् अध्यापनानि अपि ध्वनिमुद्रणरूपेण प्राप्तुं शक्यन्ते।
http://www.vyomalabs.in
अत्र मुख्यतः सी॰बी॰एस्॰सी॰ पाठ्यक्रमस्थसंस्कृतपाठानां पाठनं प्रवर्तते।
१०– अन्यानि दृश्यश्रव्योपकरणानि
      http://vedabhoomi.org/
आन्ध्रप्रदेशस्य जगदेवपुरग्रामे संस्थितस्य सीतारामवेदसंस्कृतविद्यापीठस्य जालस्थानेऽस्मिन् रघु–कुमार–मेघ–किरातादिकाव्यानि समल्लिनाथव्याख्यानि, शाङ्करभाष्यसहकृताः चोपनिषदः, सिद्धान्तकौमुद्याः षड्लिङ्गप्रकरणान्तं च व्याख्यानं, एतेषां ध्वनिमुद्रणं सम्यक् प्रस्तुतम् ॥
एतदतिरिच्यYou tube, Archives.org, mediafire  आदिषु स्थानेषु संस्कृतविदुषां तत्तच्छास्त्रोपयोगिनानां वार्तानां दृश्यश्रव्यरूपेण समाहारो विद्यते। तत्र प्रमुखाः सन्ति जि॰ महाबलेश्वरभट्टः, अशोकअक्लूजकरः, शतावधानीगणेश, रामानुजदेवनाथादयो विद्वांसः। अत्र विद्वद्भिः स्वकीयान्यपि वस्तूनि अन्येभ्यो ज्ञापयितुमिष्टानि निधातुं शक्यानि।
एतावतीषु शोधसामग्रीषु सतीषु वयं वञ्चिता न भवेम इत्येतदर्थं अस्माभिः वैयक्तिकरूपेण संस्थाभावेन वा भूयान् एतासामुपयोगो विधेयः, प्रतिस्पन्दैः अत्राभियुक्ता ये ते प्रोत्साहनीयाः अथ च यथाशक्ति स्वयमपि अत्र योगो दातव्यः येन संस्कृतसमाजः अस्मिन् प्राविधिकयुगे सबलतरः सञ्जायताम्।

3 Responses

  1. Suklaji,
    Congratulate you for writing an informative article on Sanskrit internet resources and thanks for mentioning my blog. There is an error in its URL given in the article. Please correct it to http://sanskritebooks.org/

  2. Thank You!
    2014-11-24 20:15 GMT+05:30 Balramshukla’s Blog
    :
    > balramshukla posted: ”
    > आधुनिकवैद्युतशोधोपकरणानि
    > –––बलरामशुक्लः (अध्यापकः संस्कृतविभागे) अन्तर्जालसहकृतं संगणकम् आधुनिकयुगे
    > विकासस्य प्रतिभ”
    See details 

No comments: